Original

संजय उवाच ।अपराह्णे महाराज सूतपुत्रः प्रतापवान् ।जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ।भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥ ७ ॥

Segmented

संजय उवाच अपराह्णे महा-राज सूतपुत्रः प्रतापवान् जघान सोमकान् सर्वान् भीमसेनस्य पश्यतः भीमो ऽप्य् अतिबलः सैन्यम् धार्तराष्ट्रम् व्यपोथयत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
सोमकान् सोमक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
भीमो भीम pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अतिबलः अतिबल pos=a,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=a,g=n,c=2,n=s
व्यपोथयत् विपोथय् pos=v,p=3,n=s,l=lan