Original

तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् ।व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ॥ २८ ॥

Segmented

तत्र भारत भीमस्य बलम् दृष्ट्वा अति मानुषम् व्यत्रस्यन्त रणे योधाः कालस्य इव युग-क्षये

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s
व्यत्रस्यन्त वित्रस् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
योधाः योध pos=n,g=m,c=1,n=p
कालस्य काल pos=n,g=m,c=6,n=s
इव इव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s