Original

कपिर्ह्यसौ वीक्ष्यते सर्वतो वै ध्वजाग्रमारुह्य धनंजयस्य ।दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थः ॥ २६ ॥

Segmented

कपिः ह्य् असौ वीक्ष्यते सर्वतो वै ध्वज-अग्रम् आरुह्य धनंजयस्य दिवाकर-आभः मणिः एष दिव्यो विभ्राजते च एव किरीट-संस्थः

Analysis

Word Lemma Parse
कपिः कपि pos=n,g=m,c=1,n=s
ह्य् हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
वीक्ष्यते वीक्ष् pos=v,p=3,n=s,l=lat
सर्वतो सर्वतस् pos=i
वै वै pos=i
ध्वज ध्वज pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
आरुह्य आरुह् pos=vi
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
दिवाकर दिवाकर pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
मणिः मणि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
विभ्राजते विभ्राज् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
किरीट किरीट pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s