Original

हिरण्यवर्मा निशितैः पृषत्कैस्तवात्मजानामनिलात्मजो वै ।अतापयत्सैन्यमतीव भीमः काले शुचौ मध्यगतो यथार्कः ॥ १४ ॥

Segmented

हिरण्य-वर्मा निशितैः पृषत्कैस् ते आत्मजानाम् अनिलात्मजो वै अतापयत् सैन्यम् अतीव भीमः काले शुचौ मध्य-गतः यथा अर्कः

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
वर्मा वर्मन् pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पृषत्कैस् पृषत्क pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
आत्मजानाम् आत्मज pos=n,g=m,c=6,n=p
अनिलात्मजो अनिलात्मज pos=n,g=m,c=1,n=s
वै वै pos=i
अतापयत् तापय् pos=v,p=3,n=s,l=lan
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अतीव अतीव pos=i
भीमः भीम pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
शुचौ शुचि pos=a,g=m,c=7,n=s
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अर्कः अर्क pos=n,g=m,c=1,n=s