Original

संजय उवाच ।तेषामनीकानि बृहद्ध्वजानि रणे समृद्धानि समागतानि ।गर्जन्ति भेरीनिनदोन्मुखानि मेघैर्यथा मेघगणास्तपान्ते ॥ १ ॥

Segmented

संजय उवाच तेषाम् अनीकानि बृहत्-ध्वजानि रणे समृद्धानि समागतानि गर्जन्ति भेरी-निनद-उन्मुखानि मेघैः यथा मेघ-गणाः तपान्ते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
बृहत् बृहत् pos=a,comp=y
ध्वजानि ध्वज pos=n,g=n,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
समृद्धानि समृध् pos=va,g=n,c=1,n=p,f=part
समागतानि समागम् pos=va,g=n,c=1,n=p,f=part
गर्जन्ति गर्ज् pos=v,p=3,n=p,l=lat
भेरी भेरी pos=n,comp=y
निनद निनद pos=n,comp=y
उन्मुखानि उन्मुख pos=a,g=n,c=1,n=p
मेघैः मेघ pos=n,g=m,c=3,n=p
यथा यथा pos=i
मेघ मेघ pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तपान्ते तपान्त pos=n,g=m,c=7,n=s