Original

एवमाभाष्य राजानमब्रवीन्माधवं वचः ।अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः ।तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ॥ २० ॥

Segmented

एवम् आभाष्य राजानम् अब्रवीन् माधवम् वचः अद्य कर्णम् रणे कृष्ण सूदयिष्ये न संशयः तद् अनुध्याहि भद्रम् ते वधम् तस्य दुरात्मनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आभाष्य आभाष् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
माधवम् माधव pos=n,g=m,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सूदयिष्ये सूदय् pos=v,p=1,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अनुध्याहि अनुध्या pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s