Original

तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि ।युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ।निहतः खड्गमुद्यम्य धृष्टद्युम्नेन संजय ॥ ६१ ॥

Segmented

तथा द्रौपदिना द्रोणो न्यस्त-सर्व-आयुधः युधि युक्त-योगः महा-इष्वासः शरैः बहुभिः आचितः निहतः खड्गम् उद्यम्य धृष्टद्युम्नेन संजय

Analysis

Word Lemma Parse
तथा तथा pos=i
द्रौपदिना द्रौपदिन् pos=n,g=m,c=3,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
युक्त युज् pos=va,comp=y,f=part
योगः योग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आचितः आचि pos=va,g=m,c=1,n=s,f=part
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s