Original

इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् ।अप्यपुत्रा तेन राधा भवित्री कुन्ती मया वा तदृतं विद्धि राजन् ।प्रसीद राजन्क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते ॥ ९८ ॥

Segmented

इत्य् एवम् उक्त्वा पुनः आह पार्थो युधिष्ठिरम् धर्म-भृताम् वरिष्ठम् अप्य् अपुत्रा तेन राधा भवित्री कुन्ती मया वा तद् ऋतम् विद्धि राजन् प्रसीद राजन् क्षम यन् मया उक्तम् काले भवान् वेत्स्यति तन् नमस् ते

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
पुनः पुनर् pos=i
आह अह् pos=v,p=3,n=s,l=lit
पार्थो पार्थ pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
अप्य् अपि pos=i
अपुत्रा अपुत्र pos=a,g=f,c=1,n=s
तेन तेन pos=i
राधा राधा pos=n,g=f,c=1,n=s
भवित्री भवितृ pos=a,g=f,c=1,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वा वा pos=i
तद् तद् pos=n,g=n,c=2,n=s
ऋतम् ऋत pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
क्षम क्षम pos=a,g=m,c=8,n=s
यन् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वेत्स्यति विद् pos=v,p=3,n=s,l=lrt
तन् तद् pos=n,g=n,c=2,n=s
नमस् नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s