Original

तस्मिन्हते कुरवो निर्जिताः स्युरेवंबुद्धिः पार्थिवो धर्मपुत्रः ।यदावमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥ ६५ ॥

Segmented

तस्मिन् हते कुरवो निर्जिताः स्युः एवंबुद्धिः पार्थिवो धर्मपुत्रः यदा अवमानम् लभते महान्तम् तदा जीवन् मृत इत्य् उच्यते सः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
कुरवो कुरु pos=n,g=m,c=1,n=p
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
स्युः अस् pos=v,p=3,n=p,l=vidhilin
एवंबुद्धिः एवंबुद्धि pos=a,g=m,c=1,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
धर्मपुत्रः धर्मपुत्र pos=n,g=m,c=1,n=s
यदा यदा pos=i
अवमानम् अवमान pos=n,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
महान्तम् महत् pos=a,g=m,c=2,n=s
तदा तदा pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
मृत मृ pos=va,g=m,c=1,n=s,f=part
इत्य् इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s