Original

राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् ।सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् ।यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् ॥ ११२ ॥

Segmented

राधेयस्य अद्य पापस्य भूमिः पास्यति शोणितम् सत्यम् ते प्रतिजानामि हतम् विद्ध्य् अद्य सूतजम् यस्य इच्छसि वधम् तस्य गतम् एव अद्य जीवितम्

Analysis

Word Lemma Parse
राधेयस्य राधेय pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
पापस्य पाप pos=a,g=m,c=6,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
हतम् हन् pos=va,g=m,c=2,n=s,f=part
विद्ध्य् विद् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
सूतजम् सूतज pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
वधम् वध pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
अद्य अद्य pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s