Original

धनुश्चैतत्केशवाय प्रदाय यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन् ।ततोऽहनिष्यत्केशवः कर्णमुग्रं मरुत्पतिर्वृत्रमिवात्तवज्रः ॥ १४ ॥

Segmented

धनुः च एतत् केशवाय प्रदाय यन्ता अभविष्यः त्वम् रणे चेद् दुरात्मन् ततो ऽहनिष्यत् केशवः कर्णम् उग्रम् मरुत्पतिः वृत्रम् इव आत्त-वज्रः

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
केशवाय केशव pos=n,g=m,c=4,n=s
प्रदाय प्रदा pos=vi
यन्ता यन्तृ pos=n,g=m,c=1,n=s
अभविष्यः भू pos=v,p=2,n=s,l=lrn
त्वम् त्वद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
चेद् चेद् pos=i
दुरात्मन् दुरात्मन् pos=a,g=m,c=8,n=s
ततो ततस् pos=i
ऽहनिष्यत् हन् pos=v,p=3,n=s,l=lrn
केशवः केशव pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
मरुत्पतिः मरुत्पति pos=n,g=m,c=1,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
इव इव pos=i
आत्त आदा pos=va,comp=y,f=part
वज्रः वज्र pos=n,g=m,c=1,n=s