Original

कच्चित्संग्रामे विदितो वा तदायं समागमः सृञ्जयकौरवाणाम् ।यत्रावस्थामीदृशीं प्रापितोऽहं कच्चित्त्वया सोऽद्य हतः समेत्य ॥ ४१ ॥

Segmented

कच्चित् संग्रामे विदितो वा तदा अयम् समागमः सृञ्जय-कौरवाणाम् यत्र अवस्थाम् ईदृशीम् प्रापितो ऽहम् कच्चित् त्वया सो ऽद्य हतः समेत्य

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
तदा तदा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
समागमः समागम pos=n,g=m,c=1,n=s
सृञ्जय सृञ्जय pos=n,comp=y
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
यत्र यत्र pos=i
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
प्रापितो प्रापय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
कच्चित् कच्चित् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
समेत्य समे pos=vi