Original

उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः ।तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ।सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ ४० ॥

Segmented

उलूकस् तु रणे क्रुद्धः सहदेवेन वारितः तस्य अश्वान् चतुरो हत्वा सहदेवः प्रतापवान् सारथिम् प्रेषयामास यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
उलूकस् उलूक pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
वारितः वारय् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i