Original

स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् ।रथमारुरुहे वीरो धनंजयशरार्दितः ।प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥ ४७ ॥

Segmented

स विध्वस्तैः शरैः घोरैः द्रोणपुत्रः प्रतापवान् रथम् आरुरुहे वीरो धनञ्जय-शर-अर्दितः प्रगृह्य च धनुः श्रेष्ठम् पार्थम् विव्याध सायकैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विध्वस्तैः विध्वंस् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुरुहे आरुह् pos=v,p=3,n=s,l=lit
वीरो वीर pos=n,g=m,c=1,n=s
धनञ्जय धनंजय pos=n,comp=y
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p