Original

ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम् ।राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः ॥ १६ ॥

Segmented

ततो युद्धम् अतीव आसीत् चक्षुः-श्रोत्र-भय-आवहम् राजन् घोरम् च चित्रम् च प्रेक्षणीयम् समन्ततः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
चक्षुः चक्षुस् pos=n,comp=y
श्रोत्र श्रोत्र pos=n,comp=y
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
pos=i
प्रेक्षणीयम् प्रेक्षणीय pos=a,g=n,c=1,n=s
समन्ततः समन्ततः pos=i