Original

आजानेयैः सैन्धवैः पार्वतीयैर्नदीजकाम्बोजवनायुबाह्लिकैः ।गान्धारराजः स्वबलेन युक्तो व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ ९६ ॥

Segmented

आजानेयैः सैन्धवैः पार्वतीयैः नदीज-काम्बोज-वनायु-बाह्लिकैः गान्धार-राजः स्व-बलेन युक्तो व्यवस्थितो योद्धु-कामः त्वद्-अर्थे

Analysis

Word Lemma Parse
आजानेयैः आजानेय pos=n,g=m,c=3,n=p
सैन्धवैः सैन्धव pos=a,g=m,c=3,n=p
पार्वतीयैः पार्वतीय pos=a,g=m,c=3,n=p
नदीज नदीज pos=n,comp=y
काम्बोज काम्बोज pos=n,comp=y
वनायु वनायु pos=n,comp=y
बाह्लिकैः बाह्लिक pos=n,g=m,c=3,n=p
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
बलेन बल pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
व्यवस्थितो व्यवस्था pos=va,g=m,c=1,n=s,f=part
योद्धु योद्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s