Original

ततः शरशतज्वालः सेनाकक्षं महारथः ।द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने ॥ २७ ॥

Segmented

ततः शर-शत-ज्वालः सेना-कक्षम् महा-रथः द्रौणिः ददाह समरे कक्षम् अग्निः यथा वने

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शत शत pos=n,comp=y
ज्वालः ज्वाला pos=n,g=m,c=1,n=s
सेना सेना pos=n,comp=y
कक्षम् कक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
यथा यथा pos=i
वने वन pos=n,g=n,c=7,n=s