Original

सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः ।जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे ।ततोऽपरेण भल्लेन केतुं विव्याध मारिष ॥ ७ ॥

Segmented

सुशर्मा तु ततः पार्थम् विद्ध्वा नवभिः आशुगैः जनार्दनम् त्रिभिः बाणैः अभ्यहन् दक्षिणे भुजे ततो ऽपरेण भल्लेन केतुम् विव्याध मारिष

Analysis

Word Lemma Parse
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
नवभिः नवन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अभ्यहन् अभिहन् pos=v,p=3,n=s,l=lan
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
भुजे भुज pos=n,g=m,c=7,n=s
ततो ततस् pos=i
ऽपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s