Original

प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः ।ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः ।ततो बाणसहस्राणि समुत्पन्नानि मारिष ॥ ३१ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् श्वेताश्वः कृष्णसारथिः ऐन्द्रम् अस्त्रम् अमेय-आत्मा प्रादुश्चक्रे त्वरा-अन्वितः ततो बाण-सहस्राणि समुत्पन्नानि मारिष

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
श्वेताश्वः श्वेताश्व pos=n,g=m,c=1,n=s
कृष्णसारथिः कृष्णसारथि pos=n,g=m,c=1,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
त्वरा त्वरा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ततो ततस् pos=i
बाण बाण pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
समुत्पन्नानि समुत्पद् pos=va,g=n,c=1,n=p,f=part
मारिष मारिष pos=n,g=m,c=8,n=s