Original

मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः ।हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ॥ ४७ ॥

Segmented

मध्याह्ने तपतो राजन् भास्करस्य महा-प्रभाः हृताः सर्वाः शर-ओघैः तैः कर्ण-माधवयोः तदा

Analysis

Word Lemma Parse
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
तपतो तप् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
प्रभाः प्रभा pos=n,g=f,c=1,n=p
हृताः हृ pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
कर्ण कर्ण pos=n,comp=y
माधवयोः माधव pos=n,g=m,c=6,n=d
तदा तदा pos=i