Original

तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् ।विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ ॥ ४४ ॥

Segmented

ताव् अन्योन्यम् समासाद्य वृषभौ सर्व-धन्विनाम् विसृजन्तौ शरांः चित्रान् विभ्राजेताम् मनस्विनौ

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
वृषभौ वृषभ pos=n,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
विसृजन्तौ विसृज् pos=va,g=m,c=1,n=d,f=part
शरांः शर pos=n,g=m,c=2,n=p
चित्रान् चित्र pos=a,g=m,c=2,n=p
विभ्राजेताम् विभ्राज् pos=v,p=3,n=d,l=lot
मनस्विनौ मनस्विन् pos=a,g=m,c=1,n=d