Original

राजानमभि धावन्तं शरैरावृत्य रोदसी ।क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ॥ ४१ ॥

Segmented

राजानम् अभिधावन्तम् शरैः आवृत्य रोदसी क्रुद्धः प्रच्छादयामास शर-जालेन मारुतिः

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिधावन्तम् अभिधाव् pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
आवृत्य आवृ pos=vi
रोदसी रोदस् pos=n,g=n,c=2,n=d
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
मारुतिः मारुति pos=n,g=m,c=1,n=s