Original

ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः ।भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ॥ १८ ॥

Segmented

ततस् ते प्राद्रवन् भीताः पुत्रास् ते विह्वलीकृताः भीमसेनम् रणे दृष्ट्वा काल-अन्तक-यम-उपमम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भीताः भी pos=va,g=m,c=1,n=p,f=part
पुत्रास् पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विह्वलीकृताः विह्वलीकृत pos=a,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s