Original

हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः ।आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ॥ ५६ ॥

Segmented

हतान् कृत्तान् अभिमुखान् वीरान् वीरैः सहस्रशः आरोप्य आरोप्य गच्छन्ति विमानेष्व् अप्सरः-गणाः

Analysis

Word Lemma Parse
हतान् हन् pos=va,g=m,c=2,n=p,f=part
कृत्तान् कृत् pos=va,g=m,c=2,n=p,f=part
अभिमुखान् अभिमुख pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i
आरोप्य आरोपय् pos=vi
आरोप्य आरोपय् pos=vi
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विमानेष्व् विमान pos=n,g=n,c=7,n=p
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p