Original

एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः ।न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ।ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः ॥ ४० ॥

Segmented

एवम् उक्त्वा ततः पार्थम् विसृज्य च महा-बलः न्यहनत् पाण्डवीम् सेनाम् वज्रहस्त इव आसुरीम् ततः प्रायाद् द्रुतम् राजन् व्रीडन्न् इव जनेश्वरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विसृज्य विसृज् pos=vi
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
न्यहनत् निहन् pos=v,p=3,n=s,l=lun
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
वज्रहस्त वज्रहस्त pos=n,g=m,c=1,n=s
इव इव pos=i
आसुरीम् आसुर pos=a,g=f,c=2,n=s
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
व्रीडन्न् व्रीड् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s