Original

एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा ।सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः ॥ १३ ॥

Segmented

एवम् उक्त्वा महा-राज कर्णम् पाण्डु-सुतः तदा सुवर्ण-पुङ्खैः दशभिः विव्याध अयस्मयैः शितैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तदा तदा pos=i
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
अयस्मयैः अयस्मय pos=a,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part