Original

एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः ।तिष्ठत्यसुकरः संख्ये परैः परपुरंजयः ॥ ६४ ॥

Segmented

एष धर्म-भृताम् श्रेष्ठो धर्मराजो युधिष्ठिरः तिष्ठत्य् असुकरः संख्ये परैः परपुरंजयः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तिष्ठत्य् स्था pos=v,p=3,n=s,l=lat
असुकरः असुकर pos=a,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
परैः पर pos=n,g=m,c=3,n=p
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s