Original

शल्य उवाच ।आतुराणां परित्यागः स्वदारसुतविक्रयः ।अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान् ॥ ८३ ॥

Segmented

शल्य उवाच आतुराणाम् परित्यागः स्व-दार-सुत-विक्रयः अङ्गेषु वर्तते कर्ण येषाम् अधिपतिः भवान्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आतुराणाम् आतुर pos=a,g=m,c=6,n=p
परित्यागः परित्याग pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
सुत सुत pos=n,comp=y
विक्रयः विक्रय pos=n,g=m,c=1,n=s
अङ्गेषु अङ्ग pos=n,g=m,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s