Original

अहं तस्य पौरुषं पाण्डवस्य ब्रूयां हृष्टः समितौ क्षत्रियाणाम् ।किं त्वं मूर्खः प्रभषन्मूढचेता मामवोचः पौरुषमर्जुनस्य ॥ १९ ॥

Segmented

अहम् तस्य पौरुषम् पाण्डवस्य ब्रूयाम् हृष्टः समितौ क्षत्रियाणाम् किम् त्वम् मूर्खः प्रभषन् मूढ-चेताः माम् अवोचः पौरुषम् अर्जुनस्य

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
समितौ समिति pos=n,g=f,c=7,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मूर्खः मूर्ख pos=a,g=m,c=1,n=s
प्रभषन् प्रभष् pos=va,g=m,c=1,n=s,f=part
मूढ मुह् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अवोचः वच् pos=v,p=2,n=s,l=lun
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s