Original

प्रमाथिनं बलवन्तं प्रहारिणं प्रभञ्जनं मातरिश्वानमुग्रम् ।युद्धे सहिष्ये हिमवानिवाचलो धनंजयं क्रुद्धममृष्यमाणम् ॥ १५ ॥

Segmented

प्रमाथिनम् बलवन्तम् प्रहारिणम् प्रभञ्जनम् मातरिश्वानम् उग्रम् युद्धे सहिष्ये हिमवान् इव अचलः धनंजयम् क्रुद्धम् अमृष्यमाणम्

Analysis

Word Lemma Parse
प्रमाथिनम् प्रमाथिन् pos=a,g=m,c=2,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
प्रहारिणम् प्रहारिन् pos=a,g=m,c=2,n=s
प्रभञ्जनम् प्रभञ्जन pos=a,g=m,c=2,n=s
मातरिश्वानम् मातरिश्वन् pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
सहिष्ये सह् pos=v,p=1,n=s,l=lrt
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अमृष्यमाणम् अमृष्यमाण pos=a,g=m,c=2,n=s