Original

अतिमानी पाण्डवो युद्धकामो अमानुषैरेष्यति मे महास्त्रैः ।तस्यास्त्रमस्त्रैरभिहत्य संख्ये शरोत्तमैः पातयिष्यामि पार्थम् ॥ १२ ॥

Segmented

अतिमानी पाण्डवो युद्ध-कामः अमानुषैः एष्यति मे महा-अस्त्रैः तस्य अस्त्रम् अस्त्रैः अभिहत्य संख्ये शर-उत्तमैः पातयिष्यामि पार्थम्

Analysis

Word Lemma Parse
अतिमानी अतिमानिन् pos=a,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
अमानुषैः अमानुष pos=a,g=n,c=3,n=p
एष्यति pos=v,p=3,n=s,l=lrt
मे मद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अभिहत्य अभिहन् pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
पार्थम् पार्थ pos=n,g=m,c=2,n=s