Original

संजय उवाच ।मद्राधिपस्याधिरथिस्तदैवं वचो निशम्याप्रियमप्रतीतः ।उवाच शल्यं विदितं ममैतद्यथाविधावर्जुनवासुदेवौ ॥ १ ॥

Segmented

संजय उवाच मद्र-अधिपस्य आधिरथि तदा एवम् वचो निशाम्य अप्रियम् अप्रतीतः उवाच शल्यम् विदितम् मे एतत् यथाविधाव् अर्जुन-वासुदेवौ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मद्र मद्र pos=n,comp=y
अधिपस्य अधिप pos=n,g=m,c=6,n=s
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
तदा तदा pos=i
एवम् एवम् pos=i
वचो वचस् pos=n,g=n,c=2,n=s
निशाम्य निशामय् pos=vi
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
अप्रतीतः अप्रतीत pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शल्यम् शल्य pos=n,g=m,c=2,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
यथाविधाव् यथाविध pos=a,g=m,c=1,n=d
अर्जुन अर्जुन pos=n,comp=y
वासुदेवौ वासुदेव pos=n,g=m,c=1,n=d