Original

ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् ।द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम् ।निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे ॥ ४० ॥

Segmented

ततो भीः प्राविशत् काकम् तदा तत्र विचेतसम् द्वीप-द्रुमान् अ दृः निपतन्तम् श्रम-अन्वितम् निपतेयम् क्व नु श्रान्त इति तस्मिञ् जल-अर्णवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीः भी pos=n,g=f,c=1,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
काकम् काक pos=n,g=m,c=2,n=s
तदा तदा pos=i
तत्र तत्र pos=i
विचेतसम् विचेतस् pos=a,g=m,c=2,n=s
द्वीप द्वीप pos=n,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
pos=i
दृः दृश् pos=va,g=m,c=2,n=s,f=part
निपतन्तम् निपत् pos=va,g=m,c=2,n=s,f=part
श्रम श्रम pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
निपतेयम् निपत् pos=v,p=1,n=s,l=vidhilin
क्व क्व pos=i
नु नु pos=i
श्रान्त श्रम् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जल जल pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s