Original

ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् ।आरुरोह महातेजाः शल्यः सिंह इवाचलम् ॥ १० ॥

Segmented

ततः कर्णस्य दुर्धर्षम् स्यन्दन-प्रवरम् महत् आरुरोह महा-तेजाः शल्यः सिंह इव अचलम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=n,c=2,n=s
स्यन्दन स्यन्दन pos=n,comp=y
प्रवरम् प्रवर pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s