Original

भगवानुवाच ।वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः ।मम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान् ॥ ६० ॥

Segmented

भगवान् उवाच वध्यास् ते सर्वतः पापा ये युष्मास्व् अपराधिनः मम तेजः-बल-अर्धेन सर्वांस् तान् घ्नत शात्रवान्

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वध्यास् वध् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
सर्वतः सर्वतस् pos=i
पापा पाप pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
युष्मास्व् त्वद् pos=n,g=,c=7,n=p
अपराधिनः अपराधिन् pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
घ्नत हन् pos=v,p=2,n=p,l=lot
शात्रवान् शात्रव pos=n,g=m,c=2,n=p