Original

तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च ।कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ।महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ॥ २० ॥

Segmented

तेषाम् दानव-मुख्यानाम् प्रयुतान्य् अर्बुदानि च कोट्यः च अप्रति-वीराणाम् समाजग्मुस् ततस् ततः महद् ऐश्वर्यम् इच्छन्तस् त्रिपुरम् दुर्गम् आश्रिताः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
दानव दानव pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
प्रयुतान्य् प्रयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
कोट्यः कोटि pos=n,g=f,c=1,n=p
pos=i
अप्रति अप्रति pos=a,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
समाजग्मुस् समागम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ततः ततस् pos=i
महद् महत् pos=a,g=n,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
इच्छन्तस् इष् pos=va,g=m,c=1,n=p,f=part
त्रिपुरम् त्रिपुर pos=n,g=n,c=2,n=s
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part