Original

तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम् ।येन योत्स्ये महाबाहुमर्जुनं जयतां वरम् ।यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् ॥ ३८ ॥

Segmented

तद् दिव्यम् भार्गवो मह्यम् अददाद् धनुः उत्तमम् येन योत्स्ये महा-बाहुम् अर्जुनम् जयताम् वरम् यथा इन्द्रः समरे सर्वान् दैतेयान् वै समागतान्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
भार्गवो भार्गव pos=n,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
अददाद् दा pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s
यथा यथा pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
दैतेयान् दैतेय pos=n,g=m,c=2,n=p
वै वै pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part