Original

येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः ।यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश ।तद्भार्गवाय प्रायच्छच्छक्रः परमसंमतम् ॥ ३७ ॥

Segmented

येन दैत्य-गणान् राजञ् जितवान् वै शतक्रतुः यस्य घोषेण दैत्यानाम् विमुह्यन्ति दिशो दश तद् भार्गवाय प्रायच्छत् शक्रः परम-संमतम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
दैत्य दैत्य pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
जितवान् जि pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=n,c=6,n=s
घोषेण घोष pos=n,g=m,c=3,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
विमुह्यन्ति विमुह् pos=v,p=3,n=p,l=lat
दिशो दिश् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
भार्गवाय भार्गव pos=n,g=m,c=4,n=s
प्रायच्छत् प्रयम् pos=v,p=3,n=s,l=lan
शक्रः शक्र pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
संमतम् सम्मन् pos=va,g=n,c=2,n=s,f=part