Original

कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः ।कथं वैकर्तनः कर्णस्तत्रायुध्यत संजय ।कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ॥ १५ ॥

Segmented

कृते ऽवहारे सैन्यानाम् प्रवृत्ते च रणे पुनः कथम् वैकर्तनः कर्णस् तत्र अयुध्यत संजय कथम् च पाण्डवाः सर्वे युयुधुस् तत्र सूतजम्

Analysis

Word Lemma Parse
कृते कृ pos=va,g=m,c=7,n=s,f=part
ऽवहारे अवहार pos=n,g=m,c=7,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
pos=i
रणे रण pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
कथम् कथम् pos=i
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अयुध्यत युध् pos=v,p=3,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युयुधुस् युध् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
सूतजम् सूतज pos=n,g=m,c=2,n=s