Original

एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः ।परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् ।भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे वृताः ॥ २७ ॥

Segmented

एते रथ-अश्व-द्विरदैः पत्तिभिः च उग्र-विक्रमैः परिवार्य रणे कर्णम् नाना शस्त्रैः अवाकिरन् भाषन्तो वाग्भिः उग्राभिः सर्वे कर्ण-वधे वृताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
द्विरदैः द्विरद pos=n,g=m,c=3,n=p
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p
pos=i
उग्र उग्र pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
परिवार्य परिवारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
नाना नाना pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan
भाषन्तो भाष् pos=va,g=m,c=1,n=p,f=part
वाग्भिः वाच् pos=n,g=f,c=3,n=p
उग्राभिः उग्र pos=a,g=f,c=3,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कर्ण कर्ण pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part