Original

स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान् ।उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत ॥ ७१ ॥

Segmented

स्वान् स्वे जघ्नुः महा-राज परांः च एव समागतान् उभयोः सेनयोः वीरैः व्याकुलम् समपद्यत

Analysis

Word Lemma Parse
स्वान् स्व pos=a,g=m,c=2,n=p
स्वे स्व pos=a,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परांः पर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयोः सेना pos=n,g=f,c=6,n=d
वीरैः वीर pos=n,g=m,c=3,n=p
व्याकुलम् व्याकुल pos=a,g=n,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan