Original

अयुध्यन्त महावेगाः परस्परवधैषिणः ।अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः ।न हि ते समरं चक्रुः पृष्ठतो वै कथंचन ॥ ४८ ॥

Segmented

अयुध्यन्त महा-वेगासः परस्पर-वध-एषिणः अन्योन्यम् समरे जघ्नुः योध-व्रतम् अनुष्ठिताः न हि ते समरम् चक्रुः पृष्ठतो वै कथंचन

Analysis

Word Lemma Parse
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
योध योध pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part
pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
समरम् समर pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
पृष्ठतो पृष्ठतस् pos=i
वै वै pos=i
कथंचन कथंचन pos=i