Original

अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे ।क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते ।यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह ॥ ४५ ॥

Segmented

अथ तूर्य-सहस्राणि प्रावाद्यन्त महा-मृधे क्ष्वेडाः किलकिला-शब्दाः प्रादुरासन् महीपते यद् अभ्यगच्छन् समरे पाञ्चालाः कौरवैः सह

Analysis

Word Lemma Parse
अथ अथ pos=i
तूर्य तूर्य pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रावाद्यन्त प्रवादय् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
क्ष्वेडाः क्ष्वेड pos=n,g=m,c=1,n=p
किलकिला किलकिला pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महीपते महीपति pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
अभ्यगच्छन् अभिगम् pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
कौरवैः कौरव pos=n,g=m,c=3,n=p
सह सह pos=i