Original

सीदमानानि चक्राणि समूहुस्तुरगा भृशम् ।श्रमेण महता युक्ता मनोमारुतरंहसः ॥ ३३ ॥

Segmented

सीदमानानि चक्राणि समूहुस् तुरगा भृशम् श्रमेण महता युक्ता मनः-मारुत-रंहसः

Analysis

Word Lemma Parse
सीदमानानि सद् pos=va,g=n,c=2,n=p,f=part
चक्राणि चक्र pos=n,g=n,c=2,n=p
समूहुस् संवह् pos=v,p=3,n=p,l=lit
तुरगा तुरग pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
श्रमेण श्रम pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p