Original

एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः ।अभ्रच्छायेव संजज्ञे संपतद्भिः शरोत्तमैः ॥ ८३ ॥

Segmented

एकच्छायम् अभूत् सर्वम् तस्य बाणैः महात्मनः अभ्र-छाया इव संजज्ञे संपतद्भिः शर-उत्तमैः

Analysis

Word Lemma Parse
एकच्छायम् एकच्छाय pos=a,g=n,c=2,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सर्वम् सर्व pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अभ्र अभ्र pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
संपतद्भिः सम्पत् pos=va,g=m,c=3,n=p,f=part
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p