Original

ते शरा हेमविकृताः संपतन्तो मुहुर्मुहुः ।श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव ॥ ७० ॥

Segmented

ते शरा हेम-विकृताः संपतन्तो मुहुः मुहुः श्रेणीकृता अभासन्त हंसाः श्रेणी-गताः इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
विकृताः विकृ pos=va,g=m,c=1,n=p,f=part
संपतन्तो सम्पत् pos=va,g=m,c=1,n=p,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
श्रेणीकृता श्रेणीकृत pos=a,g=m,c=1,n=p
अभासन्त भास् pos=v,p=3,n=p,l=lan
हंसाः हंस pos=n,g=m,c=1,n=p
श्रेणी श्रेणि pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i