Original

अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा ।नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्दयत् ॥ ६३ ॥

Segmented

अथ अन्यत् धनुः आदाय कर्णो वैकर्तनस् तदा नकुलम् पञ्चभिः बाणैः जत्रु-देशे समार्दयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनस् वैकर्तन pos=n,g=m,c=1,n=s
तदा तदा pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan