Original

महान्व्यतिकरो रौद्रो योधानामन्वदृश्यत ।कर्णसायकनुन्नानां हतानां निशितैः शरैः ॥ ११६ ॥

Segmented

महान् व्यतिकरो रौद्रो योधानाम् अन्वदृश्यत कर्ण-सायक-नुत्तानाम् हतानाम् निशितैः शरैः

Analysis

Word Lemma Parse
महान् महत् pos=a,g=m,c=1,n=s
व्यतिकरो व्यतिकर pos=n,g=m,c=1,n=s
रौद्रो रौद्र pos=a,g=m,c=1,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
अन्वदृश्यत अनुदृश् pos=v,p=3,n=s,l=lan
कर्ण कर्ण pos=n,comp=y
सायक सायक pos=n,comp=y
नुत्तानाम् नुद् pos=va,g=m,c=6,n=p,f=part
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p