Original

विहीनान्रथिनस्तत्र धावमानान्समन्ततः ।सूर्यपुत्रशरैस्त्रस्तानपश्याम विशां पते ॥ ११२ ॥

Segmented

विहीनान् रथिनस् तत्र धावमानान् समन्ततः सूर्यपुत्र-शरैः त्रस्तान् अपश्याम विशाम् पते

Analysis

Word Lemma Parse
विहीनान् विहा pos=va,g=m,c=2,n=p,f=part
रथिनस् रथिन् pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
धावमानान् धाव् pos=va,g=m,c=2,n=p,f=part
समन्ततः समन्ततः pos=i
सूर्यपुत्र सूर्यपुत्र pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
त्रस्तान् त्रस् pos=va,g=m,c=2,n=p,f=part
अपश्याम पश् pos=v,p=1,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s