Original

रथान्हेमपरिष्कारान्सुयुक्ताञ्जवनैर्हयैः ।भ्रममाणानपश्याम हतेषु रथिषु द्रुतम् ॥ ११० ॥

Segmented

रथान् हेम-परिष्कारान् सु युक्तान् जवनैः हयैः भ्रममाणान् अपश्याम हतेषु रथिषु द्रुतम्

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
परिष्कारान् परिष्कार pos=n,g=m,c=2,n=p
सु सु pos=i
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
जवनैः जवन pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
भ्रममाणान् भ्रम् pos=va,g=m,c=2,n=p,f=part
अपश्याम पश् pos=v,p=1,n=p,l=lan
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
रथिषु रथिन् pos=n,g=m,c=7,n=p
द्रुतम् द्रुतम् pos=i